रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् ।
दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥
नीलपीतस्थूलसूक्ष्मह्रस्वदीर्घादि भेदतः ।
नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥ २॥
आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा ।
सङ्कल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३॥
कामः सङ्कल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे ।
ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः ॥ ४॥
नोदेति नास्तमेत्येषा न वृद्धिं याति न क्षयम् ।
स्वयं विभात्यथान्यानि भासयेत्साधनं विना ॥ ५॥
चिच्छायाऽऽवेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता ।
एकाहङ्कृतिरन्या स्यादन्तःकरणरूपिणी ॥ ६॥
छायाऽहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् ।
तदहङ्कारतादात्म्याद्देहश्चेतनतामगात् ॥ ७॥
अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः ।
सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् ॥ ८॥
सम्बन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु ।
कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९॥
अहङ्कारलये सुप्तौ भवेद्देहोऽप्यचेतनः ।
अहङ्कारविकासार्धः स्वप्नः सर्वस्तु जागरः ॥ १०॥
अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता ।
वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥
मनोऽहङ्कृत्युपादानं लिङ्गमेकं जडात्मकम् ।
अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् ।
विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥
सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि ।
अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः ।
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥
साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् ।
चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६॥
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते ।
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥ १७॥
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ।
या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ १८॥
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ।
भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥ १९॥
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥
खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु ।
अभिन्नाः सच्चिदानन्दाः भिद्येते रूपनामनी ॥ २१॥
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ।
समाधिं सर्वदा कुर्याद्-हृदये वाऽथवा बहिः ॥ २२॥
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ।
दृश्यशब्दानुविद्धेन सविकल्पः पुनर्द्विधा ॥ २३॥
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ।
ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ॥ २४॥
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ।
अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५॥
स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु ।
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥ २६॥
हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि ।
समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७॥
अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् ।
इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८॥
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ।
एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम् ॥ २९॥
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३१॥
इति भारती तीर्थ स्वामिना विरचितः
दृग्दृश्यविवेकः समाप्तः ॥

No comments:
Post a Comment